Pages

अवनितलं पुनरवतीर्णा स्‍यात- संस्‍कृतगीतं ।।

          अद्य अहं भवताम सम्‍मुखे एकं संस्‍कृतगीतं प्रस्‍तुतोमि। पठित्‍वा किंचित स्‍वविचारान प्रेर्षयन्‍तु।।

अवनितलं पुनरवतीर्णा स्‍यात् संस्‍कृत गंगाधारा
धीरभगीरथवंशोस्‍माकं वयं तु कृत निर्धारा।।

निपततु पण्डित हरशिरसि, प्रवहतु नित्‍यमिदं वचसि
प्रविशतु वैयाकरणमुखं, पुनरपिवहताज्‍जनमनसि
पुत्र सहस्रं समुद्धृतं स्‍यात यान्‍तु च जन्‍मविकारा

धीरभगीरथवंशोस्‍माकं वयं तु कृत निर्धारा।।

ग्रामं-ग्रामं गच्‍छाम, संस्‍कृत शिक्षां यच्‍छाम
सर्वेषामपि तृप्तिहितार्थं स्‍वक्‍लेशं नहि गणयेम
कृते प्रयत्‍ने किं न लभेत एवं सन्ति विचारा:

धीरभगीरथवंशोस्‍माकं वयं तु कृत निर्धारा।।


या माता संस्‍कृतिमूला, यस्‍या: व्‍याप्ति: सुविशाला
वांग्‍मयरूपा सा भवतु, लसतु चिरं सा वांग्‍माला
सुरवाणीं जनवाणी कर्तुं यतामहे कृतशूरा:

धीरभगीरथवंशोस्‍माकं वयं तु कृत निर्धारा।।


संस्‍कृतभारती भारती संस्‍थाया: गेय संस्‍कृतं पुस्‍तकात साभार गृहीत:।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

सामान्‍यजीवने प्रयोगाय कानिचन् दैनिकवाक्‍यानि- द्वितीय: अभ्‍यास:

पूर्वतन क्रमेण एव पुन: अत्र सन्ति कानिचन नित्‍यप्रयोगाय वाक्‍यानि 
पूर्वतनं ज्ञातुम् अत्र सामान्‍यजीवने प्रयोगाय कानिचन् दैनिकवाक्‍यानि- प्रथम: अभ्‍यास: स्‍पृशन्‍तु।।
भवतां विचाराणां स्‍वागतम् अस्ति। 

             भवदीय: आनन्‍द:

1-मम नाम........                     मेरा नाम......... !
2-एष: मम मित्रं                        यह मेरा मित्र !
3-एषा मम सखी                      यह मेरी सखी !
4-भवान्
/ भवती कस्‍यां कक्षायां           प‍ठति  आप पु0/ स्‍त्री0 किस कक्षा में पढते हैं !

5-अहं पंचम कक्षायां पठामि               मैं पांचवी कक्षा में पढता
/ पढती हूं !
 

6-भवत: ग्राम:/ भवान् कुत्रत्‍य:?        आप कहां के रहने वाले हैं ?
 

7-अहं........ग्रामस्‍य/ नगरस्‍य निवासी अस्मि      मैं........ग्राम/ नगर का निवासी हूं!
 

8-कुत: आगच्‍छति?                        आप कहां से आ रहे हैं ?

9-विद्यालयत:/ गृहत: आगच्‍छामि     स्‍कूल से/ घर से आ रहा/ रही हूं (त: - से)
 

10-कुत्र गच्‍छति ?                          आप कहां जा रहे हैं ?

11-देवालयं/ विद्यालयं/ कार्यालयं गच्‍छामि         मन्दिर/ विद्यालय/ कार्यालय जा रहा/ रही हूं!

12-स्‍वल्‍पं                                    थोडा- बहुत/ जरा सा !
13-अहं न जानामि                        मै नहीं जानता/ जानती हूं !

14-किमर्थं न भवति ?                  क्‍यों नही होता है ?
15-अथ किम्                             और क्‍या !
16-नैव खलु                              नहीं तो !
17-आगच्‍छतु                           आइये/ पधारिये !
18-उपविशतु                             बैठिये !
19-ज्ञातम्                                समझे !
20- कथम् आसीत् ?                 कैसा था ?


संस्‍कृतं वदतु पुस्‍तकात साभार स्‍वीकृत:।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

वैदिकयज्ञानां विवादितप्रसंगा:।।।



सनातन परम्‍परायां वेदानां महत्‍वं भगवतस्‍थानके अस्ति।
वयं सर्वे भारतीया: वेदादिग्रन्‍थान साक्षात् र्इश्‍वर: एव मन्‍यन्‍ते।
वेदग्रन्‍था: सर्वदा जगतकल्‍याणविषयका: एव सन्ति एतत् सवै: अपि अंगीकृयते।

किन्‍तु प्राय: पाश्‍चात्‍यविद्वान्‍सानां वेदविषये अति दुराग्रह: दृष्‍यते।
ते सर्वदा वेदग्रन्‍थान सामान्‍यलौकिकग्रन्‍था: एव मन्‍यन्‍ते। तथा यथा-कथंचित् अपि एतेषां ग्रन्‍थानां अनादरं कर्तुं उद्युक्‍ता: भवन्ति।
अस्मिन् क्रमे एव वेदे  वर्णितानां यज्ञानां विषयेपि तेषां मत्‍तव्‍यहार: दृष्‍यते।
ते वैदिकयज्ञविषये बहु किमपि अनर्गलप्रलाप: कुर्वन्ति।
तेषां उक्ति: यत् वैदिकयज्ञा: हिंसाप्रधाना: सन्ति।
ते केचन् उदाहरणा: अपि ददति यत् वैदिकयज्ञे बलिविधानं, पुनस्‍च अश्‍वमेध आदि यज्ञे तु साक्षात् मेधशब्‍द: हिंसापरक एव। पुन: आलभन इत्‍यपि शब्‍द: हिंसापरक एव।
एवं विधा वेदयज्ञेषु सर्वत्र हिंसा एव अस्ति एष: कुविचार: प्रसारित: अस्ति एतै: पाश्‍चात्‍य विद्वान्‍सै:।

किन्‍तु ते वैदेशिका: वेदानां पूर्णअनुशीलनं न कृतवन्‍त: केवलं स्‍वल्‍पज्ञानमेव प्राप्‍य मिथ्‍यालापं कृतवन्‍त:।
तेषां भ्रामकतथ्‍यानां अत्र मया अनावरणं भवति। एतान तथ्‍यान ज्ञात्‍वा भवन्‍त: स्‍वयमेव वैदिकानां दुर्मति: ज्ञाष्‍यन्ति।

प्रथममतं - बलि शब्‍द: हिंसार्थक: इति तेषां प्रथम: कुतर्क:।

निराकरणम्- बलि शब्‍दस्‍य शब्‍दकोशे आहुति, भेंट, चढावा, भोज्‍यपदार्थानाम् अर्पणम् इति अपि अर्थ: दत्‍त: अस्ति, अत: केवलं बलि शब्‍दस्‍य हिंसापरक अर्थ: एव उचितं न भाति। पुनश्‍च श्राद्ध कर्मेषु काकबलि, गोबलि, पिपीलिकाबलि आदि बलिविधानम् अस्ति चेत् यदि बलि शब्‍दस्‍य हिंसापरक अर्थ: स्‍वीकृयते तर्हि श्राद्धकर्मेषु अपि हिंसा आगच्‍छति।

द्वि‍तीयमतं- अश्‍वमेध आदि यज्ञेषु मेधशब्‍दप्रयोगेनेव हिंसा प्रतीयते।

निराकरणम्- मेध इति शब्‍दस्‍य कोशे ''मेधा हिंसनयो: संगमे च इति'' व्‍युत्‍पत्ति: अस्ति। अर्थात् मेधासंवर्धनं, हिंसा अपि च एकीकरण, संगतिकरणं वा इत्‍यपि अर्थ भवति चेत् केवलं हिंसा एव स्‍वीक्रियते तर्हि दोष: आगच्‍छति। अन्‍यअर्था: स्‍वीक्रियते तर्हि विसंगति: न भवति।

तृतीयमतं-  आलभन इति शब्‍दप्रयोगेण वैदिकयज्ञा: हिंसापरकआसन् इति ।

निराकरणं- आलभन शब्‍दस्‍य अन्‍ये अर्था: क्रमश: स्‍पर्शं, प्राप्ति: चापि अस्ति अत: यदि एतेषाम् प्रयोग: क्रियते चेत् वेदस्‍य वेदत्‍वं रक्षते।  पुनश्‍च ''ब्रह्मणे ब्राह्मणं आलभेत। क्षत्राय राजन्‍यं आलभेत'' इति वाक्‍यस्‍य अनर्थ: भविष्‍यति यदि आलभन शब्‍दस्‍य ग्रहणं हिंसार्थे क्रियते तर्हि । अ‍त: स: अनर्थ: न आगच्‍छेत अस्‍य कृते आलभन शब्‍दस्‍य प्रयोग: हिंसार्थे न क्रियते।

पुनश्‍च वैदिकयज्ञानां कृते अध्‍वर इत्‍यपि पर्याय दत्‍तमस्ति यस्‍य अर्थ: एव हिेंसाविहीन:, अहिंसक:
वा इति अस्ति।
तर्हि यदि वैदिकयज्ञानां अध्‍वर इत्‍यपि संज्ञा अस्ति चेत् हिेंसकप्रवित्‍ते: निवारणं स्‍वत: एव भवति।
अत: इति प्रमाण्‍यते यत् वैदिकयज्ञा: सर्वथा हिंसाविहीना: एव भवन्ति।
वैदेशिकानां मतं तु केवलं वेदानां महिमाया: ह्रास: कर्तुमेवासीत्।।

एष: लेख आचार्य श्रीरामशर्मा कृत ऋग्‍वेद संहिताया: भूमिकाभागात साभार गृहीत: अस्ति।
अस्‍य लेखस्‍योपरि भवतां विचाराणां स्‍वागतम् अस्ति।।

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

श्री सीताराम पूर्ण ब्रह्म इति- कथम्



सम्‍पूर्ण भारते भगवान् श्रीरामचन्‍द्र: सर्वमान्‍य: सर्वतो पूजनीय: च अस्ति।
बहव: तं ब्रह्म इति मत्‍वा पूज्‍यन्‍ते चेत् बहव: नारायणस्‍य अवतार इति मत्‍वा पूज्‍यन्‍ते किन्‍तु प्रायश: कस्मिश्च्ति् अपि राज्‍ये भगवान् श्रीरामचन्‍द्रस्‍य विरोध: नास्ति।
अस्‍माकं भारते एव तथा नास्ति अपितु सम्‍पूर्णविश्‍वे भगवत: श्रीरामस्‍य तथैव अर्चा भवति।
सीमा प्रदेशे स्थितानां प्ररक्षकवीराणां तु प्राणे एव वसति भगवान् श्रीराम।


किन्‍तु यस्‍य भारतदेशस्‍य आत्‍मा भगवत: श्रीरामचन्‍द्रस्‍य चरणौ वसति तस्‍य देशस्‍य एव केचन् राजनीतिराक्षसा: भगवत: सत्‍ता नास्ति इति वदन्ति।
ते नरप्रेता: भगवन्‍तं हिमालयस्‍य आकारवत् मिथ्‍या प्रमाणयन्ति।
तेषां मुखपिधानं तु कर्तुं न शक्‍नुम: किन्‍तु ये भगवत्‍पादारविन्‍दौ अनुरागं धरन्ति तेषां कृते भगवान् श्रीरामसीता कथं ब्रह्म इति रहस्‍यं उद्घाटयाम:।
पूर्वतनलेखे अहं 108 इति संख्‍याया: महत्‍वं उद्घाटितवान् आसम्।
तस्‍यानुसारं 108 इति ब्रह्मसूचक: खलु।
साम्‍प्रतं अत्र अहं सीताराम इति संज्ञायां 108 इति वर्णसंख्‍या दर्शयामि।
सीताराम इत्‍यस्‍य वर्णक्रम: पश्‍याम:


स-32
ई-4
त-16
आ-2
र-27
आ-2
म-25


व्‍यंजनवर्णेषु 'स'कारस्‍य 32तमं स्‍थानम्।
तथैव अन्‍येषां व्‍यंजनानां स्‍थानं क्रमश:।
स्‍वरवर्णेषु 'ई'कारस्‍य 4तमं स्‍थानम्।
तथैव अन्‍येषां स्‍वराणामपि।


एतस्मिन् क्रमे यदि सम्‍पूर्णस्‍य गणनां कुर्म: चेत्
32 +4 +16 +2 +27 +2 +25= 108


एवं विधा श्रीरामसीता साक्षात् ब्रह्म एव इति प्रमाण्‍यते।
अस्मिन् लेखे दत्‍तानां वर्णक्रमाणां अवगमनार्थं मम पूर्वतनं लेखनं पश्‍यन्‍तु।
अत्र यदि काचित् त्रुटि: दृष्‍यते चेत् अवश्‍यमेव सूचनीयम्।


भवतां प्रतिक्रियाया: कृते हार्दिक स्‍वागतमस्ति।


भवदीय:- आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

108 संख्‍याया: महत्‍वोद्घाटनम्


दैनिक जीवने वयं बहुवारं 108 संख्‍याया: प्रयोगं पश्‍याम: ।  कस्‍यचिदपि सभायां यदा कस्‍यचित् महाभागस्‍य सम्‍बोधनं क्रियते चेत् प्रायश: श्री श्री 108  इति सम्‍बोधनं क्रियते।
अद्य पर्यन्‍तं वयं शताधिक वारं अस्‍य प्रयोगं पश्‍याम:, कुर्म: चापि किन्‍तु कदापि अस्‍माकं हृदये एतस्मिन् विषये जिज्ञासा न प्रभवति यत् एतस्‍या: संख्‍याया: प्रयोग: किमर्थं क्रियते कस्‍य कृते वा।
अस्‍य महत्‍वं किम्।
अस्‍य तात्‍पर्यं किम्।

अद्य वयं अस्‍य विषयस्‍योपरि विचारं करिष्‍याम :।
108 संख्‍याया: प्रयोग: प्राय ज्‍येष्‍ठानां सम्‍बोधने कुर्वन्ति ।
108 संख्‍या वस्‍तुत: ब्रह्मसूचकी संख्‍या अस्ति ।
एतया संख्‍यया अतिथि: ब्रह्मस्‍वरूपअस्ति साक्षात् ब्रह्म एव वा इति निर्दिशन्ति।
कथं इति प्रश्‍न: आगच्‍छति ।

ब्रह्म इति शब्‍दस्‍य वर्णक्रम: यदि परिगण्‍यते चेत् 108 आगच्‍छति।
पश्‍याम:
ब-23
र-27
ह-33
म-25

व्‍यंजनवर्णेषु 'ब'कारस्‍य स्‍थानं 23तम: अस्ति।
(क वर्ग=5 (क ख ग घ ड), च वर्ग=5, ट वर्ग=5, त वर्ग=5, प वर्ग=5, य र ल व ष श स ह क्ष त्र ज्ञ)
एवं विधा सर्वेषां वर्णानां क्रम: उपरोक्‍तं आगच्‍छति।
यदि यतेषां योग
क्रियते चेत्
23+27+33+25 =108 इति आगच्‍छति।

एतदर्थमेव 108 संख्‍याया: प्रयोग: ज्‍येष्‍ठानां कृते क्रियते।
एतदर्थमेव अस्‍या: संख्‍याया: प्रयोगसमये योग्‍यं अयोग्‍यं वा इति अवधानं देयम् इति।।


एतत् तथ्‍यं कथं आसीत् इति अस्मिन् विषये भवतां वैचारिकसहयोग: अपेक्षते।
आशामहे यत् भवतां टिप्‍पणय: अवश्‍यमेव प्राप्‍स्‍ये।

यदि कश्चित् त्रुटि: प्राप्‍यन्‍ते भवन्‍त: अत्र चेत् कृपया इंगीकुर्वन्‍तु।

पुनस्‍च एवमेव काचित् नूतनी सूचना अग्रिम लेखे प्रकाशयिष्‍यामि।
तावत् पर्यन्‍तं नमो नम: ।

भवतां विचाराणां स्‍वागतम्
भवदीय:- आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

भारतीयानां हृदयस्‍पन्‍दनं सचिनतन्‍देलुकरं तस्‍य जन्‍मदिवसस्‍य हार्दिक शुभकामना:

न केवलं सर्वेषां भारतीयानां अपितु सम्‍पूर्ण विश्‍वजनानां हृदयस्‍पन्‍दनसचिनतन्‍देलुकरस्‍य अद्य सप्‍तत्रिंशति: तम: जन्‍मदिवस:।
एष: अवसर: न केवलं तस्‍य कृते अपितु सर्वेभारतीयानां कृतेपि महत् हर्षस्‍य विषय: ।
स: क्रिकेटजगत: सम्राट अथ च भारतस्‍य अमूल्‍य हीरक रत्‍न: अस्ति।
स: यावत् गौरवशालिन: तावत् एव विनम्रअपि अस्ति।
अत: आगम्‍यताम्  ,
वयं सर्वे मिलित्‍वा श्रीमान सचिनमहोदयाय शुभकामनां दद्म:।


सचिन शतं वर्षाणि जीवतु


जय हिन्‍द
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

सरलतया संस्‍कृतं वक्‍तुम् इच्‍छति चेत्

यदि भवान सरलतया संस्‍कृतं वक्‍तुम, लेखितुं, वार्तालापं कर्तुं, संस्‍कृतक्षेत्रे वृत्तिं प्राप्‍तुम् इच्‍छति चेत् अत्र अस्ति महान अवसर:


संस्‍कृतभारती इति संस्‍था अनवरत दश दिवसात्‍मकं शिविरं चालयति।
अस्‍य शुल्‍कं न लगति।
अपि च प्राय: सम्‍पूर्णभारते सर्वेषु राज्‍येषु एष: कार्यक्रम: आवर्षं चलति।
अत: अस्‍य महद् अवसरस्‍य लाभ: स्‍वीकर्तुं भवन्‍त: अद्य आरभ्‍य एव प्रयासरता: भवन्‍तु।


साम्‍प्रतं जूनमासे 6 जूनत: 16 जून पर्यन्‍तं लखनउ नगरे (उत्‍तर प्रदेशे) एक: आवासीय वर्ग: अपि क्रियते। एष: वर्ग: सशुल्‍केन अस्ति।
अत्र भवन्‍त: दशदिवसं यावत् प्रांगणे एव भूत्‍वा संस्‍कृतस्‍य ज्ञानं प्राप्‍ष्‍यन्ति
अत्र भवताम भोजनादिकव्‍यवस्‍था: अपि संस्‍कृतभारत्‍या एव क्रियते।
अस्‍य वर्गस्‍य संम्‍पूर्ण व्‍ययशुल्‍कं 500 रूप्‍यकाणि सन्ति नाधिकं किंचित्।
अत्र केवलं दश दिवसं यावत् एव पठित्‍वा भवन्‍त: संस्‍कृत माध्‍यमेन सरलतया वक्‍तुं समर्था: भविष्‍यन्ति इति मम अनुभव:।


अ‍त: निवेदये यत अवसरस्‍य लाभ: अवस्‍यमेव स्‍वीकुर्यु: इति


अन्‍या: सूचना: 9454093250- सुशील जी अथवा 9598759203 प्रमोद जी महोदयो: पार्श्‍वे दूरभाष: कृत्‍वा प्राप्‍तुं शक्‍नुवन्ति।।


भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

सामान्‍यजीवने प्रयोगाय कानिचन् दैनिकवाक्‍यानि




अत्र कानिचन् दैनिक प्रयोगाय वाक्‍यानि सन्ति। अवगमने सुविधा भवेत अत: एतेषाम हिन्‍दी अनुवाद: अपि दीयते।

संस्‍कृतं वदतु-                                                       संस्‍कृत बोलिये
नमो नम:-                                                            नमस्‍कार
नमस्‍कार:-                                                           नमस्‍कार
प्रणाम:-                                                                प्रणाम
धन्‍यवाद:-                                                             धन्‍यवाद
स्‍वागतम्-                                                            स्‍वागत है
क्षम्‍यताम्-                                                           क्षमा कीजिये
चिन्‍ता मास्‍तु-                        कोई बात नहीं,चिन्‍ता मत कीजिये
कृपया-                                                                कृपा करके
पुन: मिलाम:-                                                       फिर मिलेंगे
अस्‍तु-                                                                  ठीक है
श्रीमन्, मान्‍यवर-                              श्रीमान, मान्‍यवर, महोदय
मान्‍ये-                                                                श्रीमती जी
उत्‍तमम्, शोभनम्-                                              बहुत अच्‍छा
भवत: नाम किम्-                            आपका क्‍या नाम है -पुलिंग
भवत्‍या: नाम किम्-                        आपका क्‍या नाम है- स्‍त्रीलिंग
मम नाम आनन्‍द:                                                मेरा नाम आनन्‍द है


इति

एतानि सन्ति कानिचन दैनिक वाक्‍यानि
येषाम् प्रयोग: वयं प्रतिदिनं बहुवारं कुर्म:।
अत: अद्य आरभ्‍य एव एतेषां दैनिक अभ्‍यास: करणीय:।
अग्रिम दिवसे अन्‍यानि कानिचन् वाक्‍यानि प्रेषयिष्‍यामि।
तावत् पर्यन्‍तं नमोनम: ।

साभार संस्‍कृतं वदतु पुस्‍तकात


भवदीय: आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्





वयं सर्वे जानिम: यत् संस्‍कृतभाषा सम्‍पूर्णविश्‍वस्‍य प्राचीनतमा  भाषा अस्ति। वयं भारतीया: अस्‍या: भाषाया: पुत्रा: एव। न कश्चित् हिन्‍दुमुश्लिमसिखइसाई अपितु सर्वे ये भारते निवसन्ति भारतीय: एव अत: अस्‍माकं सर्वेषाम भाषा एषा देववाणी। अद्य सम्‍पूर्ण विश्‍व: एकस्‍वरेण स्‍वीकरोति यत् एषा गीर्वाणवाणी संस्‍कृतभाषा विश्‍वस्‍य प्राचीनतमा भाषा अत: वयं अस्मिन विषयेपि सौभाग्‍यशालिन:। पुनश्‍च अस्‍माकं संस्‍कृतभाषायामेव वेदादि सदृश: प्राचीनतम अपि च सुपयोगि ग्रन्‍था: सन्ति।


किन्‍तु अद्य अस्‍माकं संस्‍कृतभाषाया: उपरि आंग्‍लभाषाया:प्रभाव: जायमान: अस्ति। वयं भारतीया:एव अद्य अस्‍माकं मातृभाषां परित्‍यज्‍य अपरभाषाणां भाषणं कुर्वन्‍त:स्‍म: । अनेन कारणेनेव अद्य संस्‍कृतस्‍य संस्‍कृते: च दुर्गति: जायमाना अस्ति। अत: आगम्‍यताम, अद्य एकं संकल्‍पं स्‍वीकुर्म: यत् संस्‍कृतस्‍य पुनरूत्‍थानाय वयं स्‍वस्‍य जीवनं दद्म:। संस्‍कृतकार्यं राष्‍टकार्यं अत: भारतस्‍य संस्‍कृतिरक्षार्थं वयं संस्‍कृतस्‍य प्रसारं करिष्‍याम: 

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम् 
जयतु संस्‍कृतं, जयतु भारतम्
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतेव जगत्‍सर्वं

अद्य अहं एतस्‍य नूतन ब्‍लागेन सह् भवताम सम्‍मुखे आगतोस्मि इति ममेव महत् सौभाग्‍यस्‍य विषय:  ।
यथा भवताम् प्रेम पूर्वं प्राप्‍नोमि स्‍म तथैव इदानीमपि आशामहे।

भगवत: इच्‍छा अस्ति चेदेव अद्य एतस्‍य नूतन ब्‍लाग निर्माणं जातमस्ति
सर्वे संस्‍कृतानुरागिण: अत्र अभीष्‍ट विषया: प्राप्‍नुयु: इति मम प्रयास: भविष्‍यति ।

भवताम सहयोगस्‍य कृते महत् धन्‍यवाद:

भवदीय: - आनन्‍द:
http://vivekanand-pandey.blogspot.com/
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS