Pages

संस्‍कृतलेखनप्रशिक्षणकक्ष्‍या - लिंग-वचन प्रकरणम्


अद्य संस्‍कृतभाषायां लेखनाय यत् द्वितीयस्‍तरे सर्वाधिकमहत्‍वपूर्णं प्रकरणमस्ति तदस्ति लिंग-वचन प्रकरणम् ।
अत: अत्र लिंग-वचनयो: प्रस्‍तुति: क्रियते ।
एतयो: सह् एतेषां प्रयोग: कथं क्रियते एतदपि अत्र संक्षेपेण दीयते इति ।

लिंगानि त्रीणि भवन्ति 

पुलिंगम् स्‍त्रीलिंगम् नपुंसकलिंगम्

उदाहरणम् -
 राम: , रमा , फलम् 

वचनानि अपि त्रीणि एव भवन्ति

एकवचनम् द्विवचनम् बहुवचनम्
राम: रामौ रामा:
रमा रमे रमा:
फलम् फले फलानि

अत्र राम: (पुलिंगम्) एकवचनमस्ति, रामौ (पुलिंगम्) द्विवचनमस्ति अपि च रामा: (पुलिंगम्) बहुवचनमस्ति 

रमा (स्‍त्रीलिंगम्) एकवचनमस्ति , रमे (स्‍त्रीलिंगम्) द्विवचनमस्ति अपि च रमा: (स्‍त्रीलिंगम्) बहुवचनमस्ति

अस्मिन क्रमे एव

फलं (नपुंसकलिंगम्) एकवचनम् , फले (नपुंसकलिंगम्) द्विवचनमस्ति अपि च फलानि (नपुंसकलिंगम्) बहुवचनमस्ति ।।

वाक्यप्रयोगसमये यत् लिंगं यत् वचनं या च विभक्ति: विशेषणस्‍य भवति तद् लिंगं तद् वचनं सा च विभक्ति: विशेष्‍यस्‍य अपि भवति ।

यथा -
राम: उत्‍तमेन मित्रेण सह् विद्यालयं गच्‍छति

अत्र 'राम:' एकवचने अस्ति, तदनुसारमेव 'मित्रेण' अपि तृतीया एकवचनम् अस्ति अपि च मित्रस्‍य विशेषणं 'उत्‍तमेन' अपि तृतीया एकवचनमेव अस्ति ।

अग्रिम कक्ष्‍यायां वयं वचन-विभक्‍तीनां अध्‍ययनं करिष्‍याम:

अद्यतनं अलम्

जयतु संस्‍कृतम्

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतलेखनप्रशिक्षण्‍कक्ष्‍या - कारकविभक्तिप्रकरणम्



स्‍वागतमस्ति भवतां सर्वेषाम् संस्‍कृतलेखनप्रशिक्षणस्‍य प्रथमकक्ष्‍यायाम् ।
सर्वप्रथमं प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍य वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम्

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहं
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम्

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।।

अद्य आरभ्‍य वयं प्रकृष्‍ट रूपेण संस्‍कृतस्‍य लेखनस्‍य प्रशिक्षणं स्‍वीकुर्म:
वयं जानिम: यत् संस्‍कृतभाषा एका वैज्ञानिकी भाषा अस्ति ।  अत्र तदेव लिख्‍यते यत् पठ्यते अपि च तदेव पठ्यते यत् लिख्‍यते ।
अत: अद्य आरभ्‍य वयं एतस्‍या: वैज्ञानिकभाषाया: सम्‍यक लेखनं अवगच्‍छाम: ।

भवतां सर्वेषां कृते स्‍वातन्‍त्रं भविष्‍यति किमपि प्रष्‍टुम्, वक्‍तुं, वैचारिकसाहाय्यं कर्तुम् अपि च भाषागतसाहाय्यं कर्तुमपि ।
भवतां टिप्‍पणय: स्वागतार्ह: सन्ति ।

अथ प्रथमो अभ्‍यास: 

 
कारक, विभक्ति प्रकरणम्


विभक्तय: - कारकाणि - चिह्नानि



प्रथमा - कर्ता - ने
द्वितीया - कर्मं - को
तृतीया - करणं - के द्वारा
चतुर्थी - सम्‍प्रदानं - के लिये
पंचमी - अपादानं - से
षष्‍ठी - सम्‍बन्‍ध:* - का/की/के
सप्‍तमी - अधिकरण - में/पर
अष्‍टमी** - सम्‍बोधनं*** - हे/अरे

* सम्‍बन्‍ध: कारकं नैव भवति ।
** अष्‍टमी विभक्ति: नैव भवति ।
*** सम्‍बोधनं अपि कारकं नैव भवति ।

अत्र कानिचन् अवधेयानि सन्ति यत् क्रमश: दीयते ।
1- कारकाणि षट् एव भवन्ति ।
2- सम्‍बन्‍ध: कारकं न भवति ।
3- विभक्तय: सप्त भवन्ति ।
4- वाक्‍यनिर्माणसमये कारकविभक्‍तीनां सम्‍यक अवधानं देयं भवति ।
5- शब्‍दरूपाणां धातुरूपाणां च सम्यक प्रयोग: यथालिंगं भवेत् ।

अद्यतन गृहकार्यं
सम्‍यकतया कारकविभक्‍तीनां स्‍मरणं चिन्‍है: सह् करणीयम् अस्ति ।

शान्तिमन्‍त्रं वदाम: -
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

जयतु संस्‍कृतम्

भवदीय: आनन्‍द:


  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

संस्‍कृतप्रशिक्षणकक्ष्‍या - दशमो अभ्‍यास: ।


प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।


पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।

एष: राम: 
एष: दशरथ: ।
राम: दशरथस्‍य पुत्र: ।

एषा लेखनी ।
एष: बालक: ।
एषा बालकस्‍य लेखनी ।

एतत् कमलपुष्‍पं ।
एतत् पत्रम्  ।
एतत् कमलपुष्‍पस्‍य पत्रम् ।

अग्रे चलाम:

एष: शिशु: - यह शिशु है ।
एष: गर्त: - यह गड्ढा है ।
शिशु: गर्ते प‍तति - शिशु गड्ढे में गिरता है ।

एतानि वस्‍तूनि - ये वस्‍तुएँ हैं ।
एष: स्‍यूत: - यह झोला है ।
वस्‍तूनि स्‍यूते अस्ति - वस्‍तुएँ झोले में हैं ।

स: आनन्‍द: - वह आनन्‍द है ।
एष: प्रकोष्‍ठ: - यह कमरा है ।
आनन्‍द: प्रकोष्‍ठे वसति - आनन्‍द कमरे में रहता है ।

इत्‍येतावत् अलम्

गृहकार्यं


  शान्तिमन्‍त्रं वदाम:


सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।


नमो नम:

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

त्वत्सम्मुखे उपस्थितोस्मि

इति मम परममित्र-आनन्दपांडेयस्य अनुग्रह यत् अहं त्वत्सम्मुखे उपस्थितोस्मि ।
एकदा महाज्ञानसम्पन्न: आदि शंकराचार्य महाभागः अकथयत् ज्ञानम तत् भवन्‍त: विज्ञ-पुरुषा: जानन्ति न सन्देहमस्ति, न जानामि योगं, जपं नैव पूजा... ।
अहमपि संस्कृतभाषायां लेखनं न जानामि, इति सत्यम् इश्वरमेव।
पूर्वजन्मसंस्कारवशात् कतिपय वाक्यानि प्रादुर्भवन्ति मम हृदयगुहायाम् , किंतु जानाम्यहम यत् अभ्यासं  परमपथम् ।
भवतां आशीर्वचनम् इच्छामि इति ।

.
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

पुनर्धनाढ्यः पुनरेव भोगी !! 


सुपात्र दानाच्च भवेध्दनाढ्यो,
धनप्रभावेण करोति पुण्यम !
पुण्यप्रभावात्सुर लोकवासी,
पुनर्धनाढ्यः पुनरेव भोगी !!





  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

बाह्यक्षणेन भवतीति विचित्रमेतत !!

तानिंद्रियाणि बिकलानि तदेव नाम,
सा बुद्धिर्प्रतिहता वचनं तदेव !
अर्थोष्मणा विरहितः पुरुषः सः एव,
बाह्यक्षणेन भवतीति विचित्रमेतत !!
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

स्‍वतन्‍त्रता दिवसस्‍य हार्दिक शुभकामना: ।



अद्य अस्माकं स्‍वतन्‍त्रता दिवस: अस्ति । 1947 तमे वर्षे 15 अगस्‍त दिनांके एव अस्‍माकं देश: स्‍वातन्‍त्र्यं प्राप्‍तवान ।
अत: एष: दिवस: अस्‍माकं कृते सर्वदा महान दिवस: भवति ।
आगम्‍यतां अस्‍माकं शहीदजनानां स्‍मरणं कुर्म: ।

जय हिन्‍द
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS