Pages

संस्‍कृतलेखनप्रशिक्षणकक्ष्‍या - लिंग-वचन प्रकरणम्


अद्य संस्‍कृतभाषायां लेखनाय यत् द्वितीयस्‍तरे सर्वाधिकमहत्‍वपूर्णं प्रकरणमस्ति तदस्ति लिंग-वचन प्रकरणम् ।
अत: अत्र लिंग-वचनयो: प्रस्‍तुति: क्रियते ।
एतयो: सह् एतेषां प्रयोग: कथं क्रियते एतदपि अत्र संक्षेपेण दीयते इति ।

लिंगानि त्रीणि भवन्ति 

पुलिंगम् स्‍त्रीलिंगम् नपुंसकलिंगम्

उदाहरणम् -
 राम: , रमा , फलम् 

वचनानि अपि त्रीणि एव भवन्ति

एकवचनम् द्विवचनम् बहुवचनम्
राम: रामौ रामा:
रमा रमे रमा:
फलम् फले फलानि

अत्र राम: (पुलिंगम्) एकवचनमस्ति, रामौ (पुलिंगम्) द्विवचनमस्ति अपि च रामा: (पुलिंगम्) बहुवचनमस्ति 

रमा (स्‍त्रीलिंगम्) एकवचनमस्ति , रमे (स्‍त्रीलिंगम्) द्विवचनमस्ति अपि च रमा: (स्‍त्रीलिंगम्) बहुवचनमस्ति

अस्मिन क्रमे एव

फलं (नपुंसकलिंगम्) एकवचनम् , फले (नपुंसकलिंगम्) द्विवचनमस्ति अपि च फलानि (नपुंसकलिंगम्) बहुवचनमस्ति ।।

वाक्यप्रयोगसमये यत् लिंगं यत् वचनं या च विभक्ति: विशेषणस्‍य भवति तद् लिंगं तद् वचनं सा च विभक्ति: विशेष्‍यस्‍य अपि भवति ।

यथा -
राम: उत्‍तमेन मित्रेण सह् विद्यालयं गच्‍छति

अत्र 'राम:' एकवचने अस्ति, तदनुसारमेव 'मित्रेण' अपि तृतीया एकवचनम् अस्ति अपि च मित्रस्‍य विशेषणं 'उत्‍तमेन' अपि तृतीया एकवचनमेव अस्ति ।

अग्रिम कक्ष्‍यायां वयं वचन-विभक्‍तीनां अध्‍ययनं करिष्‍याम:

अद्यतनं अलम्

जयतु संस्‍कृतम्

भवदीय: - आनन्‍द:
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS