Pages

किं मनु-सतरूपा भ्रात-भगिनि इति आस्‍ताम् ।।


केचन दिवसा: गता: कश्चित महोदय: मत्त: एक: प्रश्‍न: पृष्‍टवानासीत् यत् यदि श्रृष्‍टे: प्रथम: मानव: मनु-सतरूपा इति उभौ आस्‍ताम् । तेषामेव सन्‍तति: वयं मानवा: । तर्हि किं मनु द्वारा एव उत्‍पन्‍ना: पुत्रा: , पुत्रय: च परस्‍परं विवाह: कृत्‍वा सन्‍तानोत्‍पत्ति: कृतवन्‍त: । यदि कृतवन्‍त: चेत् भ्राता-भगिनि परम्‍पराया: निर्वहनं कथं अभवत । यदि न कृतवन्‍त: चेत् श्रृष्‍टे: विकास: अथवा अत्र मानवानां जनसंख्‍या वृद्धि: कथं जा‍तम्।

           अस्‍य उत्‍तरदानस्‍य पूर्वम् अहम् एकं वार्तां वक्तुम् इ‍च्‍छामि यत् पूर्वं तु सम्‍पूर्ण श्रृष्टि परम्‍पराया: ज्ञानानन्‍तरम् एव यदि कश्चित् एष: प्रश्‍न: कुर्यात चेत उत्‍तम । अत्र अहं तत् समाधानं ददामि ।
वयं अस्‍माकं जगत: उत्‍पत्ति: कथम् इति पश्‍याम: ।।-
                  विष्‍णुपुराण अपि च भागवतपुराण अनुसारेण पूर्वं केवलं एक: एव आदिपुरूष: आसीत् । स: सूक्ष्‍मरूपं त्‍यक्‍त्वा स्‍थूल रूपं स्‍वीकृतवान्। तस्‍य स्‍थूलरूप: विष्‍णु इति अभवत । स: स्‍वनाभित: एकं कमलपुष्‍पम् उद्भूतवान् । तत्र पितामह ब्रह्म प्रकटितवान् । ब्रह्मात: पूर्वम् एव वेदानां उत्‍पत्ति: जात: । श्री विष्‍णु: सूक्ष्‍मरूपेण सम्‍पूर्णं वेदज्ञानं ब्रह्मण: मस्तिष्‍के आरोपितवान् । ज्ञानं प्राप्‍य ब्रह्मा तप : आरब्‍धवान् । काला: गता: , भगवान विष्‍णु आगत्‍य ब्रह्मां आदेशं दत्‍तवान यत् संकल्‍पेन सृष्टि आरम्‍भं करोतु । ब्रह्मा त‍थैव कृतवान् । तेन सर्वप्रथम एक: रूदित:बालक: प्रकटित: । स: रोदनं करोति स्‍म अतएव तस्‍य नाम रूद्र इति अभवत् । पुनश्‍च बहुविधा: महर्षय:, देवादया: उत्‍पादिता: । अस्मिन् क्रमे एव मनु-सतरूपा इत्‍ययो: अपि प्रकटनं जातं । ते सर्वप्रथम: मानवा: आसन् । तेषां कार्यं वंश‍वृद्धि इति आसीत् ।
           अत्रैव जनानां भ्रम: भवति यत् पूर्वं तु मनु-सतरूपा उभौ अपि ब्रह्मात: एव उत्‍पन्न: चेत् तयो: परस्‍पर सम्‍बन्‍ध: भ्राता-भगिनि इति अभवत् चेत् उभयो: विवाह: कथं जात: ।
अस्‍य उत्‍तरम् अस्ति यत् प्रत्‍येकस्‍य शरीरे भागद्वयं इति मन्‍यते । एकं तु पुरूषभाग:, अपरं स्‍त्रीभाग: । पितामह ब्रह्म स्‍व दक्षिणभागात् मनु तथा वामभागात सतरूपाया: उत्‍पत्ति: कृतवान्। एवं वा वक्‍तुं शक्‍नुम: यत स्‍वयं पितामह एव स्‍वकं द्वौ भागौ विभक्‍तवान् । अस्मिन् क्रमेण मनु-सतरूपा मध्‍ये भ्राता-भगिनि सम्‍बन्‍धस्‍य निराकरणं जातं ।  इत: अनन्‍तरं मानवानां वंशपरम्‍परा विषये अग्रिम लेखे चर्चयाम: ।

उपरोक्‍तेषु यदि कापि शंका अस्ति चेत् अत्र ईमेल (pandey.aaanand@gmail.com) माध्‍यमेन सूचयन्‍तु । समाधान अग्रिम लेखे प्रकाशयिष्‍याम: ।

।। जयतु संस्‍कृतम् । जयतु भारतम् ।।
  • Digg
  • Del.icio.us
  • StumbleUpon
  • Reddit
  • Twitter
  • RSS

4 Response to "किं मनु-सतरूपा भ्रात-भगिनि इति आस्‍ताम् ।।"

  1. भारतीय नागरिक - Indian Citizen says:
    May 13, 2010 at 2:06 AM

    यदि यह लेख हिन्दी में भी हो तो और उत्तम हो... मेरी संस्कृत भी अच्छी हो जायेगी..

  2. महामूर्खराज says:
    May 13, 2010 at 6:22 AM

    ब्लॉगिंग जारी रख रहें हैं यह जान कर खुशी हुई प्रयास जारी रखिएगा तभी मैं भी टूटी फूटी संस्कृत मे ब्लॉगिंग कर पाऊँगा तथा आपकी टिप्पणियाँ मेरी गलतियों को सुधारती रहेंगी मित्र रुकना नहीं यही विनती है यदि समय मिले तो मेरी एक पोस्ट जो आपके एक विनती है पर जरूर आईएगा

  3. आनन्‍द पाण्‍डेय says:
    May 13, 2010 at 7:41 AM

    भारतीय नागरिक - Indian Citizen जी
    अग्रिम लेख से इस बात का पूरा ध्‍यान रखूंगा ।।

  4. Dr. shyam gupta says:
    June 1, 2010 at 9:51 PM

    अति सुन्दर समाधान.

Type in Hindi (Press Ctrl+g to toggle between English and Hindi)

Post a Comment